आत्म रक्षा स्तोत्र | श्री वज्रपञ्जर स्तोत्रम्
ॐ परमेष्ठि नमस्कारं, सारं नवपदात्मकं,
आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ।।
ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् ,
ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ।।
ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी ,
ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ।।
ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे ,
एसो पञ्च नमुक्कारो, शिला वज्रमयी तले ।।
सव्वपावप्पासणो, वप्रो वज्रमयो बहिः ,
मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका ।।
स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं ,
वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ।।
महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी ,
परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ।।
यश्चैवं कुरुते रक्षां, परमेष्ठिपदैः सदा ,
तस्य न स्याद् भयं व्याधि –राधिश्चापि कदाचन ।।
1 Comments
thanks for share this lyrics
ReplyDelete